हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Gopala Vimsathi – श्री गोपाल विम्शति


श्रीमान्वेङ्कटनाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १ ॥

वाचं निजाङ्करसिकां प्रसमीक्षमाणो
वक्त्रारविन्दविनिवेशितपाञ्चजन्यः ।
वर्णत्रिकोणरुचिरे वरपुण्डरीके
बद्धासनो जयति वल्लवचक्रवर्ती ॥ २ ॥

आम्नायगन्धिरुदितस्फुरिताधरोष्ठं
आस्राविलेक्षणमनुक्षणमन्दहासम् ।
गोपालडिम्भवपुषं कुहनाजनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ ३ ॥

आविर्भवत्वनिभृताभरणं पुरस्तात्
आकुञ्चितैकचरणं निभृतान्यपादम् ।
दध्ना निमन्थमुखरेण निबद्धतालं
नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ४ ॥

हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत् प्रचलितपदो नापगच्छन् न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥ ५ ॥

व्रजयोषिदपाङ्गवेधनीयं
मधुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनन्धयं तत्
किमपि ब्रह्म किशोरभावदृश्यम् ॥ ६ ॥

परिवर्तितकन्धरं भयेन
स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासकं कयोश्चित्
विपुलोलूखलकर्षकं कुमारम् ॥ ७ ॥

निकटेषु निशामयामि नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं
यमुनासाक्षिकयौवनं युवानम् ॥ ८ ॥

पदवीमदवीयसीं विमुक्तेः
अटवीसम्पदमम्बुवाहयन्तीम् ।
अरुणाधरसाभिलाषवंशां
करुणां कारणमानुषीं भजामि ॥ ९ ॥

अनिमेषनिषेवणीयमक्ष्णोः
अजहद्यौवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः
करुणोन्मादकविभ्रमं महो मे ॥ १० ॥

अनुयायिमनोज्ञवंशनालैः
अवतु स्पर्शितवल्लवीविमोहैः ।
अनघस्मितशीतलैरसौ मां
अनुकम्पासरिदम्बुजैरपाङ्गैः ॥ ११ ॥

अधराहितचारुवंशनालाः
मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः
प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ १२ ॥

अखिलानवलोकयामि कालान्
महिलाधीनभुजान्तरस्य यूनः ।
अभिलाषपदं व्रजाङ्गनानां
अभिलापक्रमदूरमाभिरूप्यम् ॥ १३ ॥

हृदि मुग्धशिखण्डमण्डनो
लिखितः केन ममैष शिल्पिना ।
मदनातुरवल्लवाङ्गना-
-वदनाम्भोजदिवाकरो युवा ॥ १४ ॥

महसे महिताय मौलिना
विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामिविमुग्धवल्लवी-
-वलयाभाषितमञ्जुवेणवे ॥ १५ ॥

जयति ललितवृत्तिं शिक्षितो वल्लवीनां
शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णोः
अधरमणिसुधायामंशवान् वंशनालः ॥ १६ ॥

चित्राकल्पः श्रवसि कलयन् लाङ्गलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।
गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं
गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १७ ॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्यां
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥ १८ ॥

प्रत्यालीढस्थितिमधिगतां प्राप्तगाढाङ्कपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्यात्
वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥ १९ ॥

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिं याचमानः ॥ २० ॥

इत्यनन्यमनसा विनिर्मितां
वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते
दैवतं किमपि यौवतप्रियम् ॥ २१ ॥

इति श्रीवेदान्तादेशिकाचार्य कृत श्री गोपाल विंशतिः ॥


Sri Krishna Stotras – श्री कृष्ण स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.